भवत: कृते व्यक्तिगत् उद्धारकर्तु: रूपे यीशु इति स्वीकरणे कोsर्थ:?



प्रश्नः भवत: कृते व्यक्तिगत् उद्धारकर्तु: रूपे यीशु इति स्वीकरणे कोsर्थ:?

उत्तरम् :
किं भवता कदापि यीशुख्रीष्टो: निज व्यक्तिगत् उद्धारकर्तारूपेण अर्थात् मोक्षदातारूपेण स्वीकृत:? एनं प्रश्नं ज्ञातुं (अवगन्तुं) सर्वप्रथमं “यीशुख्रीष्टो,” “व्यक्तिगत:” तथा च “उद्धारकर्ता” एतेषां शब्दानां ज्ञानम् आवश्यकं खलु।

यीशुख्रीष्टो क:? बहव: जना: स्वीकुर्वन्ति यत् यीशुख्रीष्टो: एक: उत्तम पुरूष:, एक: महान् शिक्षक:, परमेश्वरस्य भविष्यवक्त इति। इमा: सर्वो: वार्ता: सत्या: खलु परञ्च पूर्णरूपेण इयं परिभाषा नैव घटितास्ति यत् वस्तुत: स: क:? तस्य किं स्वरूपमिर्य बाइबिल नामको ग्रन्थोsयं बोधमति यत् यीशुशरीरे परमेश्वर अस्ति। परमेश्वर: मानवरूपे इति (द्रष्टव्य योहनलिखित: सुसंवाद १:१, १४)। स: परमेश्वर: अस्यां पृथ्व्यां अस्मान् शिक्षयितुं, सुधारयितुं, क्षमाशीलकर्तुं - तथा च अस्माकं कृते मर्तुं (मरणार्थं) आगत:! यीशुख्रीष्टो: परमेश्वर:, सृष्टिकर्ता, प्रभुतासम्पन्न प्रभु: अस्ते। किं भवन्त: यीशुं स्वीकृतवन्त:?

एक उद्धारकर्ता अर्थात् मोक्षदाता क: भवति तथा च अस्माकं कृते अस्य का आवश्यकता अस्ति? बाइबिल इत्यस्य कथनमस्ति यत् अस्माभि: बहूनि पापानि कृतानि सन्ति अनुचितकार्याणि कृतानि अस्माभि: (रोमिणस्य पत्रम् ३:१०-१८)। स्वपापरिणाम – स्वरुपेणैव वयं परमेश्वरकोपस्य भागिन: न्यायपात्राणि च स्म:। स: परमेश्वर: सर्वव्यापी असीमितरूपेण विराजते। अत: तस्य विरूद्धं पापकरणे सति एकमात्र उचितदण्ड एव (रोमिणस्य पत्रम् ६:२३; प्रकाशितं वाक्यम् २०:११-१५)। अत: अस्माकं कृते उद्धारकर्त्तु: महती आवश्यकता अस्ति!

यीशुख्रीष्टो: भूमौ आगत: तथा च तेन आस्माकं स्थाने मृत्यु: प्राप्त: (२ करिन्थिनस्य पत्रम् ५:२१)। यीशुना इंद कार्य एतदर्थ कृतं यत् वयं सर्वे दण्डभागिन: न भवेम (रोमिणस्य पत्रम् ५:८)। पापानां प्रायश्चित् मृत्युरेव। यीशो मूलस्य भुगतान कृत: तर्हि वयम् न भवाम: मृत्केषु यीशो पुनरूथानं प्रमाणी करोति स्म यत् तस्य मृत्यु: अस्माकम् पापेभ्य: दण्डस्य भुगतानं पर्याप्तं आसीत्। इदं कारणं यत् यीशो केवलं एव एकः जगत: उद्धारकर्त्ता (योहनलिखित: सुसंवाद १४:६; प्रेरितानां कर्म्मणामाख्यानम् ४:१२)! कि भवन्त: यीशोख्रीष्टो: निज उद्धारकर्त्ता विश्वसन्ति?

किं यीशु: भवतां “व्यक्तिगतरूपेण” उद्धारकर्ता अस्ति? बहव: जना: इमां श्रद्धां भक्तिं वा गिरजागेंह गमनम्, प्राचीन परम्पराणां पूर्णकरणं, कामिचित् निश्चितपापानाम् अकरणम् आद्यार्थेषु गृहृन्ति। वस्तुत: इयं श्रद्धा भक्तिरिति नास्ति। सत्यस्वरूपा श्रद्धा सैव विद्यते या खलु यीशुख्रीष्टो: सह व्यक्तिगत् उद्धारकतिरूपेण सम्बद्धा अस्ति। व्यक्तिगत् उद्धारकर्ताकर्तु: अर्थ: स्वीये आत्मनि विश्वास:। यतोहि अपराणां विश्वासेन स्वस्य उद्धार: नैव भवितुं शक्नोति। केनचित् निश्चितकार्यद्वारा क्षमा इत्यस्य प्राप्तिर्न भवति। तदर्थं स्वपापां निराकरणार्थ केवलं यीशुरेव व्यक्तिगतरूपेण स्वयं उद्धारकर्ता यीशोरूपे सर्वै: स्वीकर्तव्यम्। (योहनलिखित: सुसंवाद ३:१६)। अस्ति यीशो व्यक्तिगतरूपेण स्वयं उद्धरकर्त्ता?

यदि भवन्त: यीशुख्रीष्टेन स्वकीय-उद्धारकर्तारूपेण गृहीतुमिच्छन्ति, तर्हि अत्र अधोलिखितशब्दान् एका सरल प्रार्थना प्रदत्तास्ति उच्चारयन्तु। ध्यातव्यं लिखितेयं प्रार्थना भवतां रक्षां नैव करोति। केवलम् यीशौ विश्वास एव तादृक गुण: वर्तते य: खलु पापात् रक्षति। स्वकीय विश्वासव्यक्तार्थ तथा उद्धारकरणार्थ धन्यवादज्ञापनमात्रं एक: विधि: अस्ति। “हे परमेश्वर! अहं जानामि यत् भवताविरूद्धं पापं मया कृतं तथा च दण्डपात्रोsस्मि तथापि यीशुख्रीष्टेन स: दण्ड: स्वयं गृहीत:, यस्याधिकारी भवेयम्। स्वकीयोद्धारार्थ भवति अहं विश्वसिमि। भवत: अपार-अनुकम्पा, उदारता, अनुग्रह: क्षमा च एते सर्वे मम कृते प्रदत्तोपहारा: सन्ति यै: खलु अनन्तजीवनस्य प्राप्ति र्भवति तदर्थं भवते धन्यवादं कृतज्ञतां वा ज्ञापयामि! आमेन!”

यतोहि यत्किमपि भवद्भि: अत्र पठितं तेन कारणेन किं भविद्भि: ख्रीष्टोस्य अनुकरणार्थं निर्णय: स्वीकृत:? यदि एवमस्ति तर्हि कृपया अध:स्थापितं पिञ्जं नोदयतु, यस्यार्थ: मया अद्य यीशुमतं स्वीकृतम्



संस्कृत मुख्य पृष्ठे पुन: गम्यताम्



भवत: कृते व्यक्तिगत् उद्धारकर्तु: रूपे यीशु इति स्वीकरणे कोsर्थ:?