settings icon
share icon
प्रश्न

किं क्षमा प्राप्ता वा? अहं कथं परमेश्वरात् क्षमां प्राप्तुं शक्नोमि?

उत्तरम्


प्रेरितानां कर्म्मणामाख्यानम् १३:३८ इदं घोषयति यत्, “हे बन्धुवर! युष्माभि: ज्ञातव्यं यत् अनेन यीशु द्वारा पापानां क्षमा समाचार: प्राप्यते।”

अथ का क्षमा? मम कृते अस्य का आवश्यकता?

क्षमा शब्दस्यार्थ लेखफलकं स्वच्छीकरणम्, क्षमाकरणम्, ऋणनिरस्तीकरणम् अस्ति। यदा वयं कञ्चित् प्रति काsपि त्रुटिं कुर्म: तदा वयं तस्मात् क्षमां प्राप्तुं प्रयासं कुर्म: पुन: सम्बन्धस्थापनार्थम्। क्षमा एतदर्थं नैव प्रदीयते यत् कश्चन जन: क्षमाप्राप्ति-अधिकारी अस्ति अपितु क्षमाप्राप्तियोग्य: नास्ति कश्चन। क्षमा, प्रेम, दया, अनुग्रहस्य एकं कार्यम् अस्ति। अन्य व्यक्तिं प्रति यत् किमपि विरूद्धमस्ति तत् गृहीतुं केवलम् एको निर्णय: अस्ति यद्यपि तेन भवन्तं प्रति किमपि कृत न वा।

बाइबिल ग्रन्थों बोधयति अस्मान् यत् ईश्वरात् क्षमाप्राप्ते: आवश्मता वर्तते। वयं सर्वेsपि पापिन:। सभोपदेशक ७:२० इदं घोषयतियत् - “नि:सन्देह: पृथ्व्यां नास्ति कश्चित् धर्मी मानव: य: खलु हितकारी भवेत् तथा च अधावधि नैव पापी स्यात्।” १ योहनस्य पत्रम् १:८ कथयति – “यदि वयं स्वकीयं निर्दोषीं स्वीकुर्म:, स्वपापं न अंगीकुर्म: तर्हि वयं स्वयं दोषयुक्ता: भवेम। वयम् असत्यवादिन: भवेम।” सर्वाणि पापानि परमेश्वर विरूद्धानि कार्याणि सन्ति (भजनसहिंता ५१:४)। परिणामस्वरूपेण असमभ्यं परमेश्वरक्षमाया: आवश्यकता भवति। यदि अस्माकं पापानां कृते क्षमा नैव प्राप्ता तर्हि अनन्तकालं यावत् वयं दु:खानाम उपभोगं करिष्याम: (मथिलिखित: सुसंवाद २५:४६; योहनलिखित: सुसंवाद ३:३६)।

क्षमा – इयं कथं प्राप्तुं शक्यते?

धन्यवादज्ञापनवार्ता इयमस्ति यत् परमेश्वर: प्रेमी दयालुशच वर्तते। स: सदैव पापक्षमां कुर्तें तत्पर:! (२ पित्रस्य ३:९ अस्मान् बोधयति यत्, “...परञ्च युष्माकं विषये सदा धैर्यं धारयति। स: नैव इच्छति यत् कोsपि नष्ट: स्यात्। स: मनस: परिवर्तनाय अवसरं ददाति।” तस्य इच्छा सर्वदा क्षमादानाय भवति। अत: एव स: सदैव क्षमालु: दयालु: भवति।

अस्माकं पापानां कृते न्यायोचित-दण्ड: केवलं मृत्यरेव अस्ति। रोमिण: ६:२३ आरम्भिक भाग: इदं बोधयति यत्, “पापस्य परिणाम: मृत्यरेव...।” अनन्तमृत्यु: स एव य: खलु स्वपापेभ्य: वयं अर्जितवन्त:। परमेश्वरस्य स्वंयोजनानुसारं मानव: यीशुख्रीष्टो: जात: (योहनलिखित: सुसंवाद १:१, १४)। यीशो: क्रूसे तं दण्डं स्वीकुर्वन् मृत: यस्य दण्डस्य अधिकारिण: वयम् आस्म। २ करिन्थिन: ५:२१ अस्मान् शिक्षयन्ति यतो वयं तेन यद् ईश्वरीयधार्म्मिकता भवामस्तदर्थं पापेन सह यस्य ज्ञातेय नासीत् स एव तेनास्माकं विनिमयेन पाप: कृत:। परमेश्वररूपे यीशो: मृत्युना समस्त पापानां क्षमाप्रबन्धनं कृतम्। १ योहनस्य पत्रम् २:२ घोषयति – ‘तदेव अस्माकं पापानां प्रायश्चित्तमस्ति। तत् न केवलम् अस्माकमेव अपितु समस्त जगत: पापानामपि।” यीशु मुर्देषु पाप-मृत्य्वो: विजयी भूत्वा जीवितोsभवत् (१ करिन्थिन: १५:१-२८)। परमेश्वरस्तुति: स्यात्, यीशो: मृत्यु: एवं पुनरूत्थानद्वारा, रोमिणस्य पत्रम् ६:२३ इत्यस्य द्वितीयो भाग: सत्य: जात, “परञ्च परमेश्वरस्य आर्शावार्द: अस्माकं प्रभौ यीशुख्रीष्टो अनन्तजीवनमा।”

किं भवन्त: स्वपापनां क्षमाम् इच्छति? किं भवन्त: स्व-अपराध-बोधानुगमनयुक्त भावनया ग्रसिता: सन्ति? किं भवन्त: मुक्ति: भवितुम इच्छन्ति? यदि स्वस्य उद्दारकर्ता यीशु ख्रीष्टेति स्वीकुर्वान्ति भवन्त: तर्हि विश्वासरूपेण पापानां निवारणाय केवलं क्षमा एव अत्यावश्यकी भवति। इफिषिणस्य पत्रम् १:६ मतानुसारं “अस्माभि: तस्मिन् विद्यमाने रक्तद्वारा मुक्ति: अर्थात् अपराधणां क्षमा तस्य अनुग्रहेण धनानुसारं प्राप्तमस्ति।” यीशुना अस्माकं कृत् ऋणं प्रत्यर्पितं यत् वयं क्षमां प्राप्तुं शक्नुमां:। एतदर्थं अवश्यमेव प्रार्थना करणीया – हे ईश्वर! यीशु द्वारा अस्मान् क्षमय। स: अवश्यमेव क्षमां करिष्यति। योहनलिखित: सुसंवाद ३:१६-१७ मतानुसारं शुभसन्देश: प्राप्यते, “यत ईश्वरो जगतीर्त्थ प्रेम चकार, यन्निजमेकजातं पुतं ददौ, तस्मिन् विश्वासी सर्व्वमनुष्यो यथा न विनश्यानन्तं जीवनं लप्स्यते। ईश्वरो हि स्वपुत्रं जगति प्रहितवान् न जगतो विचारसाधनार्थ, प्रत्युत जगद् यत् तेन त्राणां लभेत तदर्थम्।”

क्षमा – वस्तुत: किम् अस्या: पापीकरणम् अति सरलमस्ति?

आम्, अतिसरलमेव। यतोहि परमेश्वरात् क्षमाया: अर्जनं कर्तुं न शक्यते तस्य ऋणप्रत्यर्पणं न कर्तुं शक्यते अपितु विश्वासेन, परमेश्वरानुग्रहेण, दया, कृपा द्वारा एव प्राप्तुं शक्यते। यदि भवन्त: यीशुख्रीष्टो: स्वकीयं-उद्दारकर्तारूपेण गृहीतुमिच्छन्ति, तर्हि अत्र एका सरल प्रार्थना प्रदत्ता अस्ति। ध्यातव्यं लिखितेयं प्रार्थना भवतां रक्षां नैव करोति। केवलम् यीशौ विश्वास एव तादृक गुण: वर्तते य: खलु पापात् रक्षति। स्वकीय विश्वासव्यक्तार्थ तथा उद्धारकरणार्थ धन्यवादज्ञापनमात्रं एक: विधि: अस्ति। “हे परमेश्वर! अहं जानामि यत् भवताविरूद्धं पापं मया कृतं तथा च दण्डपात्रोsस्मि तथापि यीशुख्रीष्टेन स: दण्ड: स्वयं गृहीत:, यस्याधिकारी भवेयम्। स्वकीयोद्धारार्थ भवति अहं विश्वसिमि। भवत: अपार-अनुकम्पा, उदारता, अनुग्रह: क्षमा च एते सर्वे मम कृते प्रदत्तोपहारा: सन्ति यै: खलु अनन्तजीवनस्य प्राप्ति र्भवति तदर्थं भवते धन्यवादं कृतज्ञतां वा ज्ञापयामि! आमेन!”

यतोहि यत्किमपि भवद्भि: अत्र पठितं तेन कारणेन किं भविद्भि: ख्रीष्टोस्य अनुकरणार्थं निर्णय: स्वीकृत:? यदि एवमस्ति तर्हि कृपया अध:स्थापितं पिञ्जं नोदयतु, यस्यार्थ: मया अद्य यीशुमतं स्वीकृतम्

English



संस्कृत मुख्य पृष्ठे पुन: गम्यताम्

किं क्षमा प्राप्ता वा? अहं कथं परमेश्वरात् क्षमां प्राप्तुं शक्नोमि?
© Copyright Got Questions Ministries